सामग्री पर जाएँ

महात्मा गान्धी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मोहनदास करमचन्द गान्धी इत्यस्मात् पुनर्निर्दिष्टम्)
महात्मा गान्धी
महात्मनः गान्धिनः चित्रम्
जन्म मोहनदासः
२ अक्टोबर १८६९
पोरबन्दर्, काठियावाड एजेन्सि,
ब्रिटिश्-शासित-भारतम्[]
(अधुना गुजरातराज्यम्, भारतम्)
मृत्युः ३० जनवरी १९४८
देहली, भारतम्
मृत्योः कारणम् गोलिकया हत्या अभवत् ।
शान्तिस्थानम् राज घाट, देहली (हत्या अभवत्)
२८°३८′२९″उत्तरदिक् ७७°१४′५४″पूर्वदिक् / 28.6415°उत्तरदिक् 77.2483°पूर्वदिक् / २८.६४१५; ७७.२४८३
देशीयता भारतीयः
अन्यानि नामानि महात्मा गान्धी, बापू, गान्धीजी
शिक्षणस्य स्थितिः शामलदास-महाविद्यालयः, भावनगरम्,
इन्नर् टेम्पल्, लन्दन
वृत्तिः राजनैतिज्ञः, बैरिस्टर, Political writer, पत्रकार, दार्शनिक, autobiographer, निबंधकार, newspaper editor, civil rights advocate, संस्मरण लेखक, humanitarian, peace activist, क्रांतिकारी, साहित्यकारः, धार्मविद्य, स्वतंत्रता सेनानी edit this on wikidata
कृते प्रसिद्धः सत्यम्, अहिंसा
धर्मः हिन्दूधर्मः
भार्या(ः) कस्तूरबा
अपत्यानि हरिलाल
मुनिलाल
रामदासः
देवदासः
पितरौ पुतलीबाई गान्धी (माता)
करमचन्द गान्धी (पिता)
जालस्थानम् www.mkgandhi.org
हस्ताक्षरम्
विशेषम्
વૈષ્ણવ જન તો તેન રે કહીએ, પીડ પરાઈ જાણે રે....
(नरसिंह महेता-द्वारा रचितं गीतम्)

महात्मा गान्धी इति प्रसिद्धः मोहनदासकरमचन्द गान्धी ( (/ˈməhɑːtmɑː ɡɑːndh/)) (गुजराती: મોહનદાસ કરમચંદ ગાંધી, आङ्ग्ल: Mohandas Karamchand Gandhi) (क्रि.श.१८६९-१९४८) गुजरातराज्यस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कविः रवीन्द्रनाथ ठाकुरः तं महात्मा[] इति शब्देन सम्बोधितवान् । ततः पश्चात् सर्वे भारतीयाः तं महात्मा गान्धी इति एव अभिजानन्ति । भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धी स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्तीपर्व राष्ट्रियपर्वरूपेण आचर्यते । दक्षिणआफ्रिकादेशेऽपि महात्मा गान्धी उत्तमं कार्यं कृतवान् । अस्य पिता श्री करमचन्द गान्धी राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदास गान्धी साधारणबालकः आसीत् । मोहनदास गान्धी राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् । गान्धिमहोदयः सत्यम् अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रतः आसीत् । सः वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रतायै दृढां प्रतिज्ञाम् अकरोत् ।

बाल्ये सत्यप्रियतायाः पाठः

[सम्पादयतु]
बालकः गान्धी (क्रि.श.१८७६तमवर्षस्य चित्रम्)

बाल्ये एकदा मोहनदास गान्धी 'श्रवणपितृभक्तिः ‘सत्यहरिश्चन्द्रः’ च इति नाटाकद्वयं दृष्टवान् । तदा बालकस्य मनसि महान् परिणामः दृष्टः आसीत् । मोहनदासः “श्रवणकुमारः इव भक्तियुक्तः तथा हरिश्चन्द्रः इव सत्यप्रियः भवामि “ इति निश्चितवान् । आजीवनं सत्यप्रियतां त्यक्तुं न इष्टवान् । मोहनदास गान्धी बाल्ये मातुः सकाशात् पुराणकथाः श्रुतवान् । सदा निष्कपटः सन् स्वकृतं दोषमपि मात्रे कथयति स्म । ग्रामजीवनं तस्य इष्टम् आसीत् । अतः एव स्वदेशीवस्तुषु मोहनदासगान्धिमहोदयस्य अतीव प्रीतिः आसीत् । त्रयोदशे वयसि मोहनदास गान्धी कस्तूरबा इति कन्यया सह विवाहं कृतवान् । त्रयाणां भ्रातॄणां विवाहः एकदा एव कृतः आसीत् । बाल्ये मोहनदासः कदापि असत्यं न वदति स्म । एकदा प्राथमिकविद्यालये निरीक्षकाः आगच्छन् । ते शब्दान् लेखितुम् अवदन् । बालकः मोहनदासः एकं शब्दं दोषपूर्णं लिखितवान् । अध्यापकः समीकर्तुं संज्ञया सूचितवान् तथापि मोहनदासः स्वापराधम् अङ्गीकृतवान् आसीत् । भारतदेशात् आङ्गलान् उच्चाटयितुं प्रबलानां सैनिकानां यूनाम् आवश्यकता अस्ति । अतः शरीरं बलिष्ठं कर्तुं मांसाहारः उत्तमः इति मित्रवचनात् अनिच्छन्नपि मांसाहारं स्वीकृतवान् । भ्रातुः ऋणविमोचनार्थं गृहे सुवर्णं चोरितवान् । किन्तु एतत् सर्वं दुष्टं कार्यम् इति मत्वा पित्रे पत्रमेकं लिखितवान् । अग्रे दुष्टं कार्यं न करोमि इति प्रतिज्ञां कृतवान् तथैव अग्रे अनुसरन् आसीत् ।

गन्धी तथा तस्य पत्नी कस्तूर् बा

दक्षिण-आफ्रिकादेशे गान्धी

[सम्पादयतु]
दक्षिण-आफ्रिकादेशे गान्धी

एतस्मिन् समये दक्षिणआफ्रिकादेशे विवादे आङ्ग्लन्यायवादिने साहाय्यकरणस्य अवसरः प्राप्तः अभवत् । एतदर्थं भ्रात्रा अनुमतिं प्राप्य मोहनदास गान्धी दक्षिणआफ्रिकादेशं गतवान् । तत्र कार्यकरणसमये रेलयानेन यात्रासमये यानात् निष्कासितः सन् अतीव दुःखितः अभवत् । दक्षिणआफ्रिकादेशे अनेके भारतीयाः श्रमिकाः पीडिताः आसन् । दादा अब्दुल् सेटनामकस्य विवादः परस्परं वार्तालापेन द्वयोः पक्षयोः इच्छानुसारं समाप्तः आसीत् किन्तु भारतीयानां श्रमिकाणां समस्याः परिहर्तुं कार्यं कर्तुं तत्रैव स्थातव्यम् इति निर्धारं कृतवान् । एतदर्थं नेटाल्-इण्डियन्-काङ्ग्रेस इति संस्थां स्थापयित्वा कार्यरतः अभवत् । तत्र आन्दोलनद्वारा भारतीयानां कष्टपरिहारकार्ये यशस्वी अभवत् । तेन गान्धिमहाभागस्य विश्वे एव प्रसिध्दिः अभवत् । अहिंसारीत्या सत्याग्रहः सफलः आसीत् । क्रि.श.१९२५ तमे वर्षे मोहनदासगान्धिी भारतदेशं प्रत्यागतवान् ।

स्वातन्त्र्यान्दोलनस्य नेतृत्वम्

[सम्पादयतु]
लवणसत्याग्रहस्य समापनावसरे दाण्डीनगरे गान्धी (क्रि.श.१९३०, एप्रिल् ५ दिनाङ्कः)

भारतदेशे काङ्ग्रेससंस्था क्रि.श.१८८५ तमे वर्षे एव स्थापिता आसीत् स्वातन्त्र्यान्दोलनकार्यं करोति स्म । गान्धी काङ्ग्रेससंस्थायां प्रविष्टः अहमदाबादसमीपे सत्याग्रहार्थम् आश्रमं स्थापयित्वा अत्यन्तसरलरीत्या वासं कर्तुम् इष्टवान् । सरलजीवनम् उदात्तचिन्तनं राष्ट्रसेवा स्वातन्त्र्यलाभाय कार्यकरणं गान्धिमहात्मनः कार्यम् अभवत्। अहिंसापूर्वकं स्वातन्त्र्यप्राप्तिः इति महात्मा गान्धी सरदारपटेलः जवाहरलालनेहरुः लालबहादुरशास्त्री राजेन्द्रप्रसादः इत्यादिभिः अनेकैः नायकैः प्राप्तव्यः विषयः आसीत् । लाला लजपतरायः सुभाषचन्द्रबोसः इत्यादिप्रमुखाः नायकाः आधुनिककाले क्रान्तिमार्गं स्वीकृतवन्तः आसन् । एवं सर्वेषां प्रयत्नेन भारतदेशः क्रि.श.१९४७ तमे वर्षे आगष्टमासे १५दिनाङ्के स्वतन्त्रः अभवत् । अङ्गलाः भारतं त्यक्त्वा स्वदेशं गतवन्तः । भारते अस्मदीयः सर्वकारः स्थापितः अभवत् । डा बाबूराजेन्द्रप्रसादः राष्ट्राध्यक्षः, श्री सर्वपल्ली राधाकृष्णन् महोदयः उपराष्ट्रपतिः अभवत् । प्रधानमन्त्रिरूपेण श्रीजवाहरलालनेहरु-महोदयः अधिकारं स्वीकृतवान् । महात्मा गान्धी अधिकारं न स्वीकृतवान् । महात्मगान्धी भारतपाकिस्तानविभागे विरोधं प्रकटितवान् आसीत् । किन्तु भारतेन साकं पाकिस्तानदेशे अपि स्वातन्त्र्यं प्राप्तम् इति तु बहुजनानां दुःखकारणम् अभवत् । क्रि.श.१९४८ तमे वर्षे जनवरी ३० तमे दिने नाथूरामगोडसे इति कश्चित् भारतीयः मोहनदासगान्धिमहोदस्य हत्यां कृतवान् । भारतदेशे मोहनदासकर्मचन्दगान्धिमहोदयस्य जन्मदिनं गान्धिजयन्ती इति अक्टोबरमासस्य द्वितीये दिने आचरन्ति । तस्मिन् दिने रघुपतिराघव राजाराम पतितपावन सीताराम ॥ इत्यादिकीर्तनैः कुर्वन्ति जनाः । श्रमदानं, पथसञ्चारः, गान्धिमहोदयस्य पुष्पाञ्जलिप्रदानं महात्मगान्धिमहोदयस्य कार्याणां स्मरणं, रक्तदानम् इत्यादयः नैके कार्यक्रमाः प्रचलन्ति ।

गान्धिदर्शनम्

[सम्पादयतु]

महात्मनो गान्धिनः सम्पूर्ण चिन्तनं दैवीय-आदर्शैः परिपूर्णमस्ति । अत एवेदं स्वाभाविकमस्ति यत् महात्मा गान्धी व्यक्तिसमाजयोरुभयोः कृते धर्मस्य अनिवार्यतां स्थापितवान् । गान्धिमते धर्मस्यानिवार्यतायाः कश्चिद् विकल्पो नास्ति । आस्तिकता, विश्वासो धर्मश्च गान्धिनः कृते अविभाज्यम् चरमं सत्यं वर्तते । “ हिन्दु –स्वराज" नाम्न्यां कृतौ तेनोद्दिष्टं यत् "कश्चिदपि जनः धर्मं विना जीवितस्तिष्ठतीति भवददृष्टावसम्भवमेवास्ति”।

गान्धिमते ईश्वरे जीवे च मिथः प्रगाढः सम्बन्धोऽस्ति । गान्धी कथयति यत् जीवः आत्मनः स्वं समुन्नीय ईश्वरत्वम् आपाद्येत । गान्धिनः कल्पनायाम् ईश्वरोऽनादिः निर्गुणो निराकारश्चास्ति । सः सर्वव्यापकः सर्वशक्तिमान् च वर्तते ।ईश्वरस्य मूलस्वरूपं ब्रह्मणि विलीनीकरणमात्रं विद्यते । एवञ्चेत् प्राणिनो मौलिकं कर्त्तव्यं वर्तते यत् सः ईश्वरे आस्थां विश्वासं च दृढयेत् ।

गान्धिनो मनोवृत्तिरस्मिन् तथ्ये आधारिताऽस्ति यत् ईश्वरः सत्यात् पृथक् नास्ति । सः तु पुनः कथितवान् यत् सत्यमेव ईश्वरो वर्तते । "यंग इण्डिया” ग्रन्थे सः लिखति-“ यत्कृते ईश्वरः सत्यं प्रेमरूपं चास्ति स नीतिरूपः नैतिकतापूर्णश्चास्ति । अभयस्य पूर्णता केवलम् ईश्वरे एव दृश्यते । ईश्वरस्तु जीवनस्य अनन्यं स्रोतोऽस्ति । स एवात्मा उच्यते” । प्राणी स्वस्मिन्नेव ईश्वरस्यान्वेषणं कुर्यात्, यतो हि स ईश्वरः प्राणिषु प्रत्येकस्मिन् आत्मरूपेण तिष्ठति ।

गान्धिमते आत्मानुभूतेः उद्देश्यमपीदमेवास्ति यत् प्राणी ईश्वरस्य साक्षात्कारं कुर्यात् । एवञ्चेश्वरेण साक्षात्कृतो भवेत् । तदानीमेव स सत्यं अर्थात् यथार्थं ज्ञातुं शक्नोति, अन्यथा न । सत्यानुभूत्यै गान्धी प्राणिनः आत्मनो दृढताया अपेक्षां कामयते । दृढात्मा एव जनः स्वान्तः स्थानि अनात्मतत्त्वानि जेतुं क्षमते । अनात्मतत्त्वानां निराकरणाय महात्मा गान्धी अन्तरात्मानं निर्देष्टुं उपदिशति । एवं गान्धिमतानुसारेण यदि प्रत्येकं जनः स्वान्तरात्मनः प्रेरणया कर्मणि अग्रेसरो भवेत् तदा निश्चितमेव सः धर्मानुपालनेऽपि तत्परो भविष्यति ।

सत्यमेवेश्वरोऽस्तीति चेत् सत्यस्य संज्ञाने सति प्राणी प्रकृतेर्नियमान् गतींश्च अवगन्तुम् क्षमते । यदा च प्राणी कर्त्तव्यपरायणो भूत्वा नैतिकतादिभिः सद्गुणैश्च सहितः कर्म करोति तदा तस्यायमादर्शः स्थिरीभवति यत् आत्मोन्नत्यै सततम् अभिवर्धेत । एतादृश आदर्शः स्वान्तःप्रेरणयैव जायते । एवं गान्धिमते सत्यमेव आदर्शस्योपस्थापकोऽस्ति । सत्यं स्वस्मिन् परिपूर्णं नितान्तं सापेक्षं चास्ति । ईश्वरस्तु परमं सत्यं वर्तते, अपरिमितं सर्वव्यापकं परिपूर्णं च विद्यते । मानवस्य चिन्तनं तु सीमितं अपूर्णं च भवति । अस्यां स्थितौ ईश्वरान्वेषणं प्राणिनः पुनीतं शाश्वतञ्च कर्त्तव्यमस्ति ।

गान्धिमहोदयः धर्मं ईश्वरप्राप्त्यै मार्गरूपं स्वीकरोति । तन्मतेन विविधा धर्माः ईश्वरं प्राप्तुमुपदिष्टा विभिन्ना मार्गा एव सन्ति । यतः सर्वेषां धर्माणां प्रयोजनं तु ईश्वरप्राप्तिरित्येकमेवास्ति तथापि प्राणिनः स्वधर्म एव उत्तमो भवति । गान्धिमते धर्मपरिवर्तनं अनावश्यकम् अनुचितं चास्ति । यतो हि तेन ईश्वरे अनास्थाया अविश्वासस्य वा पुष्टिर्भवति । अतः एतादृशं कार्यं अनैतिकम् अमानवीयञ्च प्रतीयते । धर्मान्तराणां याथार्थ्यम् अवगन्तुं स्वधर्मपरित्यागः आवश्यको नास्ति । अत एव धर्मान्तरणस्यापेक्षया विविधधर्मेषु सामञ्जस्यं सहिष्णुता वा एव अधिकां सार्थकतामादत्ते ।

नैतिकता धर्मात् भिन्नास्ति । यतो धर्महीनोपि कश्चिद् जनः नैतिको भवितुमर्हति । तथापि धार्मिकजनस्य धर्माचरणानां धर्मकृत्यानां च चरमप्रयोजनम् ईश्वरसाक्षात्कार एव भवति । अतः इदं वक्तुं शक्यते यत् धार्मिको जनः नैतिको भवति, किन्तु नैतिको भवति, किन्तु नैतिको जनः धार्मिको भवेदेवेति आवश्यकं नास्ति । धर्मप्रभावात् नैतिकः प्राणी आत्मानुभूतिदिशायां कृतप्रयासो जायते । स अस्यामेव दिशि स्वसद्गुणात्मकप्रवृत्तीनां विस्तारमपि करोति, किन्तु धर्मशून्यो नैतिकोऽपि प्राणी ईश्वरं साक्षात्कर्त्तुं नैरन्तर्येण प्रयासं कुर्यादेवेति बन्धनं नास्ति ।

यद्यपि आत्मकथायां गान्धिमहोदयः स्वयं स्वीकरोति यत् धर्मो नैतिकता चेति उभयमेव तत्त्वद्वयं यथार्थतो भिन्नं नास्ति । सः अस्मिन् परिप्रेक्ष्यें धर्मं परिभाषते –ते सर्वे प्रयासाः, सर्वे विचाराः, सर्वाः क्रियाः ईश्वरसाक्षात्काराय उद्देश्यं निर्धारयन्ति । अतः धर्मपदवाच्या भवन्ति । अतः धार्मिकः कर्मण्यो भवति, न तु अकर्मण्य इति तस्य सिद्धान्तः । गान्धिप्रतिपादितः कर्मवादोऽपि मूलरूपेण धार्मिकमान्यताभिः प्रेरित आसीत् । कर्मण्यतायाः क्षेत्रे महात्मा गान्धी सर्वेषु स्तरेषु स्वगतिविधीनां माध्यमेन ईश्वरप्राप्त्यै सप्रयासोऽतिष्ठत् । एवञ्चेत् गान्धिदर्शने स्वधर्म एव कर्मयोग आसीत् । कर्मयोगस्य उद्देश्यमासीत्- मोक्षप्राप्तिरिति ।

पोरबम्न्दरुनगरे विद्यमानं गान्धिवर्यस्य जन्मगृहम्

मोक्षप्राप्तिः ईश्वरसाक्षात्कारेण भवति । ईश्वरश्च सत्यमेवासीत् । अतः तेनोक्तम् –न हि सत्यात् पर्ः ईश्वरः । सत्यस्य विषये गान्धिमहोदयस्य एतत् चिन्तनं वस्तुगतयथार्थमाश्रित्य अवर्तत । गान्धिमहोदयस्य एतत् चिन्तनं वस्तुगतयथार्थमाश्रित्य अवर्तत । गान्धिमतेन ईश्वरः तर्कात् पर अस्ति । अतः तार्किकेण युक्तिकरणेन ईश्वरस्य प्रामाण्यं नैव स्थापयितुं शक्यते । गान्धी अकथयत् यत् ईश्वरस्य बोधस्तु सम्भवोऽस्ति किन्तु तस्य तार्किकं युक्तिकरणम् अनुचितमेवास्ति । एवं गान्धिमहोदयः बोधरूपेण विश्वासरूपेण अनुभूतिरूपेण एव ईश्वरास्तित्त्वं स्वीकरोति ।

गान्धिनः चिन्तने विभिन्नधर्माणां प्रभावो दृश्यते । जन्मतो भारतीय संस्कृतेः सम्बन्धवशात् वैष्णवधर्मस्य प्रभावो मूलरूपेण अवर्तत । गान्धिनः परिवारोऽपि वैष्णवधर्मेण प्रभावित आसीत् । विशेषेण तत्पितरौ वैष्णवधर्मस्य नैतिकतादिभिर्जीवनमूल्यैः प्रेरितावास्ताम् । हिन्दुधर्मस्य प्रभाववशात् गान्धिचिन्तने मानववादस्य अवधारणा बलीयसी वर्तते, धर्मसहिष्णुतायाः कृतेऽपि अत्र पर्याप्तं स्थानमस्ति । जैनधर्मस्य प्रभावात् अहिंसाया अवधारणा गान्धिदर्शने सर्वोपरी स्थानमलभत । जैनदर्शनप्रेरणया गान्धिना लिखितम् यत् पञ्चमहामन्त्रैरेव जीवनं सृजनशीलं परोपकारि च विधातुं शक्यते । एते पञ्च महामन्त्राः सन्ति- अहिंसा सत्यम् अस्तेयं ब्रह्मचर्यम् अपरिग्रहश्चेति । श्रीमद्भगवद्गीतायाः उपनिषदां च कर्मवादस्य प्रभावोऽपि गान्धिदर्शने विद्यमानः अस्ति । बौद्धदर्शनस्य प्रभाववशात् गान्धी स्वयं साधनानां प्राथमिकतां शुद्धिं च सर्वोपरित्वेन स्वीकृतवान् । एवं गान्धिदर्शने चिन्तनस्य व्यापकता परिलक्षिता भवति ।

गान्धिदर्शनस्य प्रमुखाः सिद्धान्ताः

[सम्पादयतु]
(१) ईश्वरः अस्ति । स च सत्यात्मः वर्तते ।
(२) धर्म एव जीवनस्य प्रेरणास्रोतः अतः, धर्म आचरणीयः । धर्मः हेयो नास्ति ।
(३) कृत्रिमा आवरणवादी च भौतिकता जीवनस्य कृते अनाहार्या अस्ति ।
(४) सर्वधर्मसमभाव एव यथार्थतः मानववादी अवधारणा वर्तते ।
(५) मनसा वाचा कर्मणा व्यवहारेण च अहिंसा अनुपालनीया ।
(६) कर्म एव प्राणिनः कृते श्रेयसो मूलम् ।
(७) पञ्च महामन्त्रा अनुष्ठेयाः ।
(८) एकादश महाव्रतानि अनिवार्यरूपेण आत्मोन्नत्यै पालनीयानि ।
(९) ईश्वरः सर्वत्र व्यापकोऽस्ति । तत् सर्वेषां समाजानाम् अपरिमितनैतिकतायाः स्रोतोऽस्ति ।
(१०) प्राणिनः प्रकृति-स्वभाव-विचाराणां रूपान्तरणं प्राथमिकमस्ति ।
(११) शाश्वतं सत्यं विज्ञातुं सङ्कीर्णतायाः परित्याग आवश्यकः ।
(१२) कर्मण्यताया विकल्पो नास्ति । अतः निःस्वार्थकर्त्तव्यबोधेन कर्त्तव्यताम् आचरन् जनः जीवनप्रयोजनं साधयति ।
(१३) मानवमूल्यानि एव समाजोत्थानस्य कारकाणि सन्ति ।
(१४) विश्वबन्धुत्वेन एव मानवतायाः रक्षा सम्भवा ।


सम्बद्धाः लेखाः

[सम्पादयतु]

उल्लेखाः

[सम्पादयतु]
  1. Gandhi, Rajmohan (2006), pg 1-3.
  2. "महात्मा उपाधिप्राप्तिः". आह्रियत 8 फ़ेब्रुवरि 2014. 

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
विकिपीडिया-जालस्य सहपरियोजनाभ्यः Mahatma Gandhi एतस्मिन् विषये अधिकं विवरणं प्राप्यताम् -
चित्राणि एवम् अन्याः सञ्चिकाः कॉमन्स् मध्ये
सूक्तयः विकिसूक्तीषु
ग्रन्थः विकिस्रोतसि
"https://sa.wikipedia.org/w/index.php?title=महात्मा_गान्धी&oldid=494834" इत्यस्माद् प्रतिप्राप्तम्